(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.122. अध्यायः 122
Mahabharata - Vana Parva - Chapter Topics
लोमशेन युधिष्ठिरंप्रति पयोष्णोतटे गयकृतयागवर्णनम् ॥ 1 ॥ तथा च्यवनेन शर्यातियाजनादिकथनम् ॥ 2 ॥ युधिष्ठिरेण लोमशंप्रतिसविस्तरं च्यवनचरित्रकीर्तनप्रार्थना ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

लोमश उवाच। 3-122-0x(2100)(20659)
गयेन यजमानेन सोमेनेह पुरंदरः।
तर्पित श्रूयते राजन्स तृप्तो मुदमभ्यगात् ॥ 3-122-1(20660)
इह देवैः सहेन्द्रैश्च प्रजापतिभिरेव च।
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ 3-122-2(20661)
आधूर्तरजसश्चेह राजा वज्रधरं प्रभुः।
तर्पयामास सोमेन हयमेधेषु सप्तसु ॥ 3-122-3(20662)
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्ययम्।
वानप्रस्थं च भौमं च यद्द्रव्यं नियतं मखे ॥ 3-122-4(20663)
चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः।
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः ॥ 3-122-5(20664)
सप्तैकैकस्ययूपस्य चषालाश्चोपरिश्थिताः।
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान्।
स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ॥ 3-122-6(20665)
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ 3-122-7(20666)
प्रसङ्ख्यानानसङ्ख्येयान्प्रत्यगृह्णन्द्विजातयः ॥ 3-122-8(20667)
सिकता वा यथा लोके यथावा दिवि तारकाः।
यथा वा वर्षतो धारा असङ्ख्येयाः स्म केनचित् ॥ 3-122-9(20668)
तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः।
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥ 3-122-10(20669)
भवेत्सङ्ख्येयमेतद्धि यदेतत्परिकीर्तितम्।
न तस्य शक्याः सङ्ख्यातुं दक्षिणादक्षिणावतः ॥ 3-122-11(20670)
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा।
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥ 3-122-12(20671)
अल्पावशेषा पृथिवी चैत्यैरासीत्समाचिता।
गयस्य यजमानस्य तत्रतत्र विशांपते ॥ 3-122-13(20672)
स लोकान्प्राप्तवैनैन्द्रान्कर्मणा तेन भरत।
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥ 3-122-14(20673)
तरस्मात्त्वमत्र राजेनद्र भ्रातृभिः सहितोच्युत।
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥ 3-122-15(20674)
वैशम्पायन उवाच। 3-122-16x(2101)
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह।
वैदूर्यपर्वतं चैव नर्मदां च महानदीम् ॥ 3-122-16(20675)
`उद्दिश्य पाण्डवश्रेष्ठः स प्रतस्थे महीपतिः'।
समागमत तेजस्वी भ्रातृभिः सहितो नघ ॥ 3-122-17(20676)
तत्रास्य सर्वाण्याचख्यौ लोमशो भगवानृषिः।
तीर्थानि रमणीयानि पुण्यान्यायतनानि च ॥ 3-122-18(20677)
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह।
तत्रतत्राददद्वित्तं ब्राह्मणेभ्यः सहस्रशः ॥ 3-122-19(20678)
लोमश उवाच। 3-122-20x(2102)
देवानामेति कौन्तेय तथा राज्ञां सलोकताम्।
वेदूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥ 3-122-20(20679)
सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च।
एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥ 3-122-21(20680)
एष शर्यातियज्ञस्य देशस्तात प्रकाशते।
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह वासवः ॥ 3-122-22(20681)
चुकोप भार्गवश्चापि महेन्द्रस् महातपाः।
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ॥ 3-122-23(20682)
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान्।
`नासत्यौ च महाभाग कृतवान्सोमपीथिवौ' ॥ 3-122-24(20683)
युधिष्ठिर उवाच। 3-122-25x(2103)
कथं विष्टम्भितस्तेन भगवान्पाकशासनः।
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥ 3-122-25(20684)
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ।
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥ 3-122-26(20685)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-122-3 आधूर्तरजसो गयनामा ॥ 3-122-4 वानरस्पत्यं वृक्षजं चषालादि। भौमं मृन्मयं स्थाल्यादि ॥ 3-122-5 चषालो यूपाकटकः। यूपः यज्ञस्तम्भः। चमसाः सोमपानपात्राणि। पात्र्यः हविःस्थापनार्थानि मृन्मयानि। स्रुचः हविःप्रदानार्थाः। स्रुवाहविरवदानार्थाः ॥ 3-122-8 प्रसङ्ख्यानान् एकयत्नेन भूयःखर्णमुद्रादेर्मापकान् खारीद्रोणादीन् ॥ 3-122-26 सोमस्य पीथः पानं तद्वन्तौ सोमपीथिनौ ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.